#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00043 Uniform title: parātriśikātātparyadīpikā and śāktavijñāna Main title: parātriśikātātparyadīpikā Secondary title: śāktavijñāna Author : somānanda II Editor : Zadoo J D Description: These two texts have been transcribed from vol. 74 of the Kashmir Series of Texts and Studies. Notes: The texts have been transcribed by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski . Revision 0 Jan 28, 2007 Publisher : Research Department Jammu and Kashmir State Publication year : 1947 Publication city : Srinagar Publication country : India #################################################### Kष्ट्ष् वोल्. नो. ७४ कश्मिरसंस्कृतग्रन्थावलि ग्रन्थाङ्क - ७४ परात्रीशिकातात्पर्यदीपिका सोमानन्दकृतं शाक्तविज्ञानम् च श्रीराजराजेश्वर-महाराजाधिराज-कश्मीरनरेन्द्र श्रीहरिसिंहजी-बहादुराज्ञया रिसर्चकार्यालयाध्यक्ष - पण्डित जगद्धर जाडूशास्त्रिणा कार्यालयस्थेतरसंपादकपण्डितसहायेन संशोधनादिसंस्करणोत्तरं संपाद्य श्रीनगरे नार्मलप्रेस मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीते कश्मीर-श्रीनगर संवत् २००४ ईस्वी १९४७ श्रीपरात्रीशिकातात्पर्यदीपिका | वन्दे कुन्देन्दुनीहारवलक्षं विघ्नहारिणम् | हरगौरीसमारब्धं हेरम्बं हस्तिपुङ्गवम् || १ || अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती | मुद्रापुस्तलसद्वाहा पातु वः परमा कला || २ || श्रीमत्कैलासकश्मीरकाशीव्याघ्रपुरीस्थितम् | त्रिकार्थदर्शिनं वन्दे देवं सोमांशभूषणम् || ३ || यैः सर्वशिष्यैराचार्यैः प्रत्यक्षपरमेश्वरैः | व्याख्यातं त्रिशिकाख्यं यच्छ्रीशासनमनुत्तरम् || ४ || तद्दर्शितदिशा तस्य पद्यैर्व्याख्योदयत्यसौ | तात्पर्यप्रथनार्थत्वात्तेजोरूपाः प्रमाकृतः || ५ || तदपेक्षात्मसद्भावाः तमःकल्पाः प्रमाभुवः | उपक्रान्त्यवलम्बैतदुदयात्मतयोदिताः || ६ || तेजस्तमोमयात्मीयसद्भावा मानराशयः | यत्र सृष्टितया भान्ति लभन्ते तत् तदात्मताम् || ७ || हृदयत्वेन भान्त्येते त्यक्ततत्तत्प्रथाविधाः | तदेकरसतां याताः तदात्मत्वेन भान्त्यलम् || ८ || तदेतत्सततं त्यक्तपारोक्ष्यं सन्निधिं श्रयन् | समन्यूनाधिकत्वेन यस्य कस्याप्यभावतः || ९ || अनुत्तरं चिदेकात्मज्योतिर्वन्दनरूपया | स्तुत्याभिवादरूपात्म तदन्योन्यात्मतात्मना || १० || (प्. २) स्फुरामि तन्मयत्वेन शाश्वतेन समाविशन् | विश्रान्तिः पूर्णरूपेयं निबद्धैवमुपक्रमे || ११ || विश्रान्तयोंशगास्त्वन्ते निभेत्स्यन्ते कृताविह | शासनैर्मालिनीसिद्धाप्रमुखैः शासिता शिवः || १२ || मन्दमध्यमरूपाणामौचित्येनाधिकारिणाम् | अप्रबुद्धमतीनां हि एता बालविभीषिकाः || १३ || मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् | इति विज्ञानचिन्नाथप्रतिपादितया दिशा || १४ || उत्तरोत्तरतत्त्तादृग्भूमिकारोहहेतवे | अतिविस्तृततत्तादृग्दीक्षाचर्यादिडम्बरैः || १५ || त्रिकं प्रकाशयामास नरशक्तिशिवात्मकम् | अपरादिमयत्वेन प्रस्तुतेनागमेन तु || १६ || अनुत्तरेण तन्मातृमानमेयात्मकं त्रिकम् | अनुत्तरं स्वकीयं तद्धृदयं विश्वतत्परम् || १७ || श्रीमदुत्पलदेवीयं शास्त्रं स्तोत्रपदात्मकम् | प्रत्यभिज्ञानमात्रोद्यद्भैरवीभाववैभवम् || १८ || कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् | हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || १९ || अदृष्टमण्डलोऽप्येवं तिलाज्याहुतिवर्जितम् | इत्येवमादिरूपेण मुने श्रेष्ठकमात्मनः || २० || प्रकाशयति तद्व्याख्या निर्माणाप्येष तस्य ये | प्रसंहप्राविकान्योक्ततत्तदीक्षाभिविस्तराम् || २१ || व्याख्यां वितेनिरे तेषामपहाय दृशिस्थितिम् | श्रीमदुत्पलदेवीयमतसारतया परम् || २२ || (प्. ३) व्याख्यां करोति विशदामेवं मेयादिकं त्रिकम् | विमर्शसारमेवेह सिद्ध्युपायतया मतम् || २३ || अभिधेयतया तस्य विषयत्वेन दर्शितम् | शेषद्वयम्, अनवच्छिन्ननानात्ममाहेश्वरविमर्शताम् || २४ || अवाप्तं शासनमिदमनिदं धीपदोदयम् | तथाविधेन भावेन सदाहन्त्वेन सिद्धिमत् || २५ || १प्रकाशामर्शरूपत्वादत एव ह्यनुत्तरम् | अनुत्तरस्य देवस्य हृदयं स्वोल्लसत्तया || २६ || प्रत्नतत्प्रतिबोधैतदुपसंहाररूपया | स्वातंत्र्यात्स्वत एवैवं स्फूर्जत्यस्यायमाशयः || २७ || परापरविभूत्याप्तिरूपो मन्त्रतयोद्यताम् | विद्यात्मनां विमर्शानामित्यन्तस्यात्महृद्भुवः || २८ || प्रसृतस्यागमस्यैव परसंबन्धरूपता | देवाद्देव्या समायातं तस्यास्तारकवैरिणः || २९ || इत्यादिगुरुवर्यात्मक्रमावाप्तिस्वरूपकम् | संबन्धमनपेक्ष्यैवं स्वतन्त्रा बुध्यतामिति || ३० || तृतीयस्य देव्युवाचेत्युपक्रान्तस्य देवताम् | गतस्य भैरवेत्यादिमध्यस्यैवं फलोदयः || ३१ || शेषः | व्याख्यातृतोऽपि हृदयं व्याख्यैषा तन्मयत्वतः | तद्वदेव स्वसंवित्तिसमुल्लासतयोक्तया || ३२ || स्फूर्जत्यनुत्तरं कृत्वा नतु शिष्याद्यपेक्षया | एवं प्रवृत्तौ व्याख्यातुर्देवस्येच्छैव चोदिका || ३३ || ----------------------------------- १प्रकाशत्वानुरूपत्वात् - इत्यपि पाठः | (प्. ४) हरिणा यत्र यच्चोक्तं सामानाधिकरण्यता | देवस्यानुत्तरं हृत्तत् स्फूर्जति स्वयमित्यतः || ३४ || अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् | इत्युपक्रमरूपस्य प्रश्नस्यास्य विनिर्णये || ३५ || हृदयं देवदेवस्य सद्यो योगविमोक्षदम् | इत्युपक्रमशास्त्रस्य यावत्पूर्ति यदुच्यते || ३६ || विश्वावभासकारित्वं सिद्धिद्वितयदायिका | हृदयस्य कथं तस्य वचनस्यात्र संगतिः || ३७ || भवेदिति निरासाय शंकाया अवधार्यताम् | संबन्धो मौलिकः सोऽयं दर्शितः फलतस्तु सः || ३८ || देवेनागमरूपेण स्वेनाग्रे दर्शयिष्यते | खेचरीसमतां येन व्रजेदित्यादिना स्फुटम् || ३९ || व्याचिख्यासितरूपस्य शासनस्य यदात्मना | व्याख्यया संविधानस्य सामान्येन कुतो विधिः || ४० || कस्य संग्रहतस्तावत् तात्पर्यं प्रतिपाद्यते | शासनस्यादिमे श्लोके सा शेषेऽनुत्तरेशितुः || ४१ || देवस्य ...................... केन स्यात् वेद्यादित्रितयात्मना | प्रकारेण यतो ज्ञाता संविदः पूर्णशक्तितः || ४२ || प्रकारेण च केनास्य सिद्धिद्वितयदायिता | इति प्रश्ने दर्शयित्वा वस्त्वेतं प्रस्तुतात्मकम् || ४३ || बोधयात्मन् प्रभावाख्या प्रबन्धेनेति वृत्तिकृत् | समस्तमुपचिक्षेप शास्त्रस्यार्थं द्वितीयके || ४४ || सेयं स्वातंत्र्यशक्त्यात्मा स्वपरामर्शविग्रहा | हृदि सर्वस्य भात्येव प्रक्रियेति च तं पुनः || ४५ || (प्. ५) प्रश्नं शिथिलयित्वाथ प्रश्नोऽयं सिद्ध्यवाप्तये | सा तस्याः प्रत्यभिज्ञानलाभेन प्रक्रियात्मनः || ४६ || शक्तिं विना न भवतीत्येवं तदुपयोगिता | प्रश्नस्यास्योपपाद्याथ तृतीये शक्तिमीरिताम् || ४७ || प्रस्ताव्य कथनीयेति कौलिकोऽयं विधिर्मम | हृदये हृदयत्वेन चास्तेऽसौ विदितस्तदा || ४८ || इति शेषेण चौचित्यं तस्य वक्तुरदर्शयत् | कथनं चोत्तरारम्भपूर्वावस्थाप्रदर्शनात् || ४९ || प्रवर्तयंश्चतुष्के तु तां परादित्रिकात्मिकाम् | शक्तिं पञ्चाशता वर्णैः प्रसरन्तीं प्रदर्शयन् || ५० || शेषेण चाप्यमूलेति ज्ञेयैषेत्येवमूचिवान् | अष्टमे तु तथा तस्या अविभागात्मना स्थितिः || ५१ || सारं प्रदर्श्य नवमे तदात्मीकारमात्रतः | सूचितां प्रथमे सूत्रे सिद्धिं प्रादर्शयत् पराम् || ५२ || अथाष्टके त्वतीतादिप्रहरोचितया विधिः | इति शेषत्रयोपेक्षे (ते) शासनान्तरचोदिताम् || ५३ || प्राणादिजयकालादि नियमात्मतयोदिताम् | विद्याव्रतादिरूपाञ्च मन्त्रार्पणविधोचिताम् || ५४ || संकुचत्तां विना संवित्परामर्शस्य संपदे | परा अपि प्रसिद्ध्यन्ति सिद्धयोऽस्याप्तिरेव तु || ५५ || एतन्मन्त्रग्रहे साध्येत्येतत्सम्यङ्न्यरूपयत् | चतुष्केऽथाष्टमश्लोकप्रोक्तस्य हृदयात्मनः || ५६ || बीजस्य विश्वाभिन्नायाः शक्तिसंपूर्तिलक्ष्मणः | परायाः स्वात्मसंवित्तेर्विमर्शत्वं न्यरूपयत् || ५७ || (प्. ६) तद्वाच्यवाचकाभेदाभ्यासतत्फललक्षणम् | उक्त्वा द्वाविंशके सूत्रे नवमश्लोकसूचितम् || ५८ || फलं प्राकट्यमनयत् उपसंहारवर्त्मना | अथ त्रये तदभ्यासे पूर्वभावितयोद्यते || ५९ || सपर्याविधये भेदरूपिण्या विघ्नसंहृतेः | सामान्यतो विशेषाच्च शान्तिं सन्दर्श्य तल्परे || ६० || चतुर्दशाभिजप्तेनेत्युपक्रान्त्यंशसंयुते | ........टथा पूज्यरूपनिष्कर्षपूर्वकम् || ६१ || यागहोमोभयात्मत्वं पूजायाः पूर्तिलक्षणम् | उपपाद्य च सर्वेषां अभ्यासानां फलात्मनाम् || ६२ || पूजापुरःसरत्वं यत्तत् समर्थितवानथ | त्रिंशे तु यान्यानित्यंशसहिते प्रोक्तलक्षणः || ६३ || तस्याभ्यासचतुष्कस्य संविदामर्शनात्मनः | सफलस्य स्फुटेनैव स्वरूपेणोपदर्शनम् || ६४ || प्रथयित्वा तथांशस्य चतुर्याममयं दिनम् | यावदभ्यस्य तत्सिद्धिं योगिनः प्रत्यवादयत् || ६५ || उपान्त्येत्वस्य शास्त्रस्य समर्थ्यार्थोपसंहृतिम् | सप्रभावं परामृश्य .................................. || ६६ || प्रादर्शयदयं तावत्तत्तात्पर्यस्य संग्रहः | अथावयवशो व्याख्या तस्येदानीं विलिख्यते || ६७ || शेषः | गुरुशिष्यप्दे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयन् || ६८ || इति स्वच्छन्ददेवोक्तस्वसंवित्सिद्धवर्त्मना | (प्. ७) प्रबुध्यमाना स्वात्मैव देवता प्रत्यगात्मनः || ६९ || सती प्रत्यभिजिज्ञासुरात्मनां पृच्छतीश्वरम् | तत्र श्रीदेव्युवाचेति कृतः श्रीशासनोदयः || ७० || समनन्तरसूत्रस्य कथंकारानुरूप्यतः | अस्य धातोर्वचेरत्र प्रश्नार्थत्वेन योजना || ७१ || तद्गताय तु भूतत्वं पारोक्ष्यञ्चास्य निर्वचः | भविष्यत्युचिते पश्चात् प्रतिपतृनिरूपणे || ७२ || किंपृच्छतीत्यपेक्षायां जातायामाह शासनम् | शेषम् - अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् || ७३ || येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् | एतद्गुह्यं महागुह्यं कथयस्व मम प्रभो || ७४ || हे देवेति समस्तार्थजीवतात्मन् महेश्वर | ज्ञाने क्रियायां सर्वत्र ज्ञातृताकर्तृतात्मना || ७५ || आत्मनैवादिसिद्धत्वात्प्राथम्याभिमुखत्वभाक् | त्वं तवानुत्तरं रूपमुत्तरान् ग्राहकान् मितान् || ७६ || ग्राह्यसापेक्षसद्भावाज्जडाद्देहादितर्पितान् | अन्यदेव स्वयं भानं मादिकालादिकल्पनम् || ७७ || अनपह्नवनीयेन जागर्त्यनिशमात्मना | तत्र वाचोऽवकाशो नो दूरे वाच्यनियोजनाः || ७८ || अतस्तत्प्रश्नविषयः कस्य चेतयितुर्भवेत् | शेषः इदं तु पृच्छत्येतस्य तया प्रक्रिययात्मनः || ७९ || देहाक्षभुवनाद्यात्मकुलसंपत्तिरूपता | (प्. ८) भासते स्वाम्यपूर्णत्वस्वतन्त्रत्वानिवारिता || ८० || एतया ज्ञातया किं स्यादिति चेदुच्यतेऽनया१ | ज्ञानगोचरतापन्नमात्रया व्योम्नि चिन्मये || ८१ || चरन्ती संविदेषा स्यात्पूर्णशक्तित्वतः स्वतः | कृतार्थप्रत्यभिज्ञातादन्यथा नैव खेचरी || ८२ || वेद्यभूमिषु संचारादत एव न पूर्णता | वेद्यैर्नियन्त्रितात्मीयचारायाः संविदो महः || ८३ || शेषः | तया वा ज्ञातमात्रेण देवताभिः समत्वदम् | रूपं संविन्मयं तत्ते कुलसंबन्धिनीं पराम् || ८४ || जीवन् भैरवतामर्शसुधास्वादोत्सवात्मिकाम् | अपरां च तथा सिद्धिं विश्वात्मत्वोदयात्मिकाम् || ८५ || स्वसंविद्देवताचक्रचक्रवर्त्तित्वचिन्मयीम् | ददाति धारणाद्यात्मक्रियायाः सानपेक्षितम् || ८६ || यदेतत्प्रस्तुतं वस्तु द्वयमप्रकटं स्वतः | न मायीयेन केनापि शक्त्यास्य प्रकटा क्रिया || ८७ || उपादेयतमत्वेन भाति चोत्कर्षवत्तया | स्वयमेव यथा भाति तथाकृत्वास्य गोपतेः || ८८ || प्रभुः प्रकटने च त्वं मम त्वत् कॢप्तसंस्थितेः | त्वन्नियुक्ततयैवैवं पृच्छन्त्याः संविदस्तव || ८९ || कथनेन विमर्शस्य पश्यन्त्यादिक्रमोदयाम् | वैखरीवृत्तिपर्यन्तां पदवीमानय प्रभो || ९० || न तु च ग्राहकत्वात्मा हृदये सा प्रकाशते | ---------------------------------- १अधुनेत्यपि पाठः | (प्. ९) सर्वस्य तस्य प्रश्नेन किं स्यात् सत्यं प्रकाशते || ९१ || प्रकाशमानाप्येषा तु स्वभावेन यथा तथा | हृदयङ्गमतां नैति पथि पर्णतृणादिवत् || ९२ || नत्वप्रकाशमानत्वं स्वतो नो चेत्तथास्तु सा | तदानीं को भवद्दोषो नैतत् संसरणं परम् || ९३ || तदेतद्राघवायोक्तं वसिष्ठेन महात्मना | शेषः | स्वापरामर्शमात्रोऽयमपराधः कियानसौ || ९४ || तावन्मात्रेण तज्जातं यद्वक्तुं नैव पार्यते | प्रत्यभिज्ञा मयापूर्वचमत्काररसात्मनि || ९५ || हृदयङ्गमतायां गीः सत्यां पूर्वोक्तलक्षणा | पुरा तदा तदभ्याससाध्याप्यपररूपिणी || ९६ || द्विविधापि भवेत् तृप्तिः सिद्धिरूपा नवान्यथा | इति प्रथयितव्यांशप्रथनायोपयोगवान् || ९७ || प्रश्नस्तदर्थमेतस्मादुत्तरः शासनोदयः | हृदये या तु सा शक्तिः कौलिकी कुलनायिका || ९८ || तां मे कथय देवेश येन तृप्तिं व्रजाम्यहम् | स्वयं संविन्मये तत्र त्वद्रूपेऽनुत्तरे हृदि || ९९ || तदात्मत्वेन विश्रान्ता यासौ स्वातंत्र्यलक्षणा | शक्तिर्धात्वर्थरूपत्वात्सर्वधात्वर्थधर्मिणी || १०० || स्फुरत्ता वाङ्मयी वर्णपञ्चाशक्तिशरीरिणी | वर्णत्रयाविभागात्मबीजभावव्यवस्थिता || १०१ || यस्याः कुलमिदं ग्राह्यग्रहणग्राहकात्मकम् | चक्रं निर्मेयतां लब्ध्वा सत्तामाप्नोति शाश्वतीम् || १०२ || (प्. १०) निर्मितस्य कुलस्यास्य नायिका तस्य वेदनात् | तद्भातं कुर्वती या च तदधिष्ठातृतापदम् || १०३ || तदीयरूप (रे शन्ति) वियोगनयनक्रिया (?) | नेत्री च ममतामेनां हृदयंगमतां नय || १०४ || हृदयंगमतानीत्या यया प्रस्तुतरूपया | स्वात्मलाभात्मना लब्धतदभ्यासात्मना तथा || १०५ || अहं सर्वार्थसंवित्तिमयी पूर्णाशया सती | तृप्ती द्वे प्रस्तुते प्राप्य त्वयि पेये चिदम्बुधौ || १०६ || शेषः | एवमुद्यन्तृता शक्तिस्वरूपानुप्रवेशनैः | प्रबुद्धता स्यात् पूर्णत्वात्सैषा भैरवरूपिणी || १०७ || स्वात्मैव देवता प्रषॄप्रतिवक्तृत्वमश्नुते | शेषः | प्रश्नकृत्प्रतिवक्तृत्वप्रथारूपेऽत्र वस्तुनि || १०८ || इदानीमिदमेतादृगिहेति व्यवहारगा | व्यवहारपदानां या वस्तुनामादितेष्यते || १०९ || यैषा न वास्तवी तद्वत्स्वरूपमनिदंप्रथम् | अनुज्झदेव कालेन स्वक्लप्तकलनात्मना || ११० || भिन्नेनावर्तते यस्माद् भूतत्वेनोच्यते ततः | तथावेद्यतयाप्येतद्भाति कल्पितरूपया || १११ || प्रत्यक्षग्राह्यताभावात् परोक्षेणोच्यते ततः | ततः श्रीभैरवो देव उवाचेतीदमुच्यते || ११२ || शेषः | शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् | (प्. ११) कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः || ११३ || कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् | श्रुतिः कथनसापेक्षा कथनं ज्ञानपूर्वकम् || ११४ || अतस्तदानुगुण्येन योज्यतेऽर्धत्रयं त्विदम् | इत्येवमुत्तरत्रापि तत्र तत्र भविष्यति || ११५ || शेषः | प्रबोधोदयपर्याप्तमहाभाग्यशरीरीणि | श्रुत्वावधार्यतां सैषा यतस्तामुत्तरां तव || ११६ || ग्राहकत्वमयीं ग्राह्यग्रहणग्राहकात्मकाम् | अनुत्तरां परां शक्तिमुक्ततृप्तिप्रयोजनाम् || ११७ || हृदयङ्गमतामेनां तथा देवि नयामि ते | यथावधारणे जातमात्र एवात्र वस्तुनि || ११८ || न पुनः संशयानन्तप्रोक्तमालिन्यमज्जनम् | यतो मम प्रबुद्धस्य हृदये मातृकात्मिका || ११९ || शब्दराशिस्तया प्राप्तभैरवीभावसंपदः | हृदयत्वेन चास्तेऽसौ विदिता बीजरूपिणी || १२० || अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानकाः (गाः) | तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || १२१ || पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते || १२२ || वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | तदूर्ध्वं शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् || १२३ || अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता | सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि || १२४ || (प्. १२) इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा | हृद्व्योम्नीत्यत्र सप्तम्या हृदयात्संविदात्मनः || १२५ || अनुत्पादतया सिद्धिः प्रसिद्धा केयमिष्यते | कौलिकस्य विधेरेष इति प्रत्यक्षरूपता || १२६ || सर्वस्य कथमित्येषा त्र्यंशिका नात्र युज्यते | ज्ञेयज्ञानाग्रहे ज्ञातुस्तद्रसे स्वमयत्वतः || १२७ || तद्भावेन स्वतैवैका कदाचिद्भात्यसाविति | जानामि घटमित्यात्मविश्रान्तिर्ज्ञेयरूपिणी || १२८ || कदाचित्स्वामिनैवैका कालयोरुभयोरपि | पदार्थद्वितयं तत्र संविदि प्रथते यतः || १२९ || शेषः | तत्र ज्ञाता च सर्वात्मनिर्विवादा परोक्षभाक् | ज्ञेयोन्मेषनिमेषात्म-स्वक्रिया-कलनात्मना || १३० || तत्संकोचविकासात्मना........................................... | नित्येन विभुना ज्ञानक्रियानिर्वृतिलक्षणा || १३१ || स्वेन भावेन परितः स्वस्याहमिदमात्मता | स्पन्दनेनैव सारेण प्रसिध्यति न जातुचित् || १३२ || परिनिष्ठितरूपत्वं परिच्छिन्नं प्रकाशताम् | जडानामात्मसाकुर्वन्नेति लोष्ठातितुल्यताम् || १३३ || काणादसांख्यबौद्धादिमितदृक्कल्पितामसौ | संसृतौ गुणिनं तत्र कणभुग्दर्शनाश्रिताः || १३४ || अपवर्गे तदुच्छेदे मन्यन्ते तं शिलोपमम् | अर्थप्रकाशकं ज्ञानं बौद्धमेवेति निश्चिताः || १३५ || कापिला अपि तं प्राहुरर्थादेनमसत्समम् | (प्. १३) धीवृत्तिर्निर्विमर्शात्मा क्षणिकात्मेति सौगताः || १३६ || स्वयमेवोपयान्त्येनं शून्यमेव विपश्चितः | निर्विमर्शक्रियं भानं विश्वात्मत्वेन तं परे || १३७ || अभ्युपेत्यास्य सद्भावं मायावेदान्तिशाब्दिकाः | अविद्यान्धत्वतन्मुक्त्योरविशिष्टं विविञ्चते || १३८ || अन्येऽपि चैवमन्योक्तस्वोक्तदूषणभूषणे | वितन्वानास्त्वयीत्युक्तरूपमेनमुपासते || १३९ || ज्ञेयसत्ताप्रथारूपज्ञातृकर्तृत्वलक्षणः | ज्ञातैष स्वपरिस्पन्दसारत्वेनेह निश्चितः || १४० || सा संकोचविकासात्मा तस्य च स्पन्दतिक्रिया | बाह्यान्तरात्मव्याप्त्यन्यमयद्वैविध्ययोगिनी || १४१ || विश्वबीजात्महृदया तदंशेषु यथा यथा | उच्चारणमुहूर्तादिसमावेशात्मना दिशा || १४२ || ज्ञातेषु स्फुटतामेति ज्ञातृतास्य तथा तथा | उत्कृष्यते परे यावत्तत्त्वे भैरवसंज्ञिनि || १४३ || उच्चारणेऽपि प्राणात्मस्पन्दनात्मन्यसन्मुखी | यथा यथा सा न्यूनत्वमज्ञातेष्वश्नुते तथा || १४४ || तथा निकृष्यते यावज्जडे पाषाणपर्वणि | शेषः | स चायं मम संकोचविकासवपुरात्मनः || १४५ || अनुत्तरस्य शक्तिः सा विसर्गात्मैवमात्मनः | प्रकाशैकतनुर्यस्मात्सेयं ज्ञानक्रियात्मिका || १४६ || अनुत्तरस्य मे शक्तिर्विसर्गात्मात्तरूपिणी | अः इत्यत्रात एवैष सद्विश्रान्त्युदयात्मनोः || १४७ || (प्. १४) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् | इत्येतद्दर्शितात्मीयलक्ष्मणोः भैरवात्मनोः || १४८ || शिवशक्त्योश्चिद्विमर्शपरिपूर्तिस्वरूपयोः | संघट्ट उच्यते रुद्रयोगिनीयामलात्मना || १४९ || सा च स्वान्तरभेदेन भवद्भिः सार्वकालिकैः | चिदानन्दैषणेशित्वसोन्मेषोनत्वशक्तिभिः || १५० || इच्छेशनचिदन्तःस्थचेत्यसत्तास्फुरान्वितैः | चिदानन्दगुणीभूतवृद्धीच्छोन्मेषमिश्रणैः || १५१ || चतुर्भिरेषणाज्ञानक्रियातत्समतात्मभिः | वेद्यसंस्कारवित्त्यात्मबिन्दुसंवेदनान्वितैः || १५२ || विशेषैस्तिथिःसंख्यातैः पूर्यमाणावतिष्ठते | एवं पूर्णविसर्गात्मा यश्चिदात्मा विसर्गतः || १५३ || परभैरवभैरव्योर्यामलं तद्विसर्गता | तेषु सामान्यरूपत्वान्न पृथक्त्वेन गण्यते || १५४ || शेषः | एवं विसर्गरूपे मे हृदयेऽनुत्तरात्मनः | वक्तुर्वक्तिक्रियारूपे तादात्म्येन स्थिता सती || १५५ || प्रसरत्येवमेषा यदकाराद्या अमन्तिमाः | एते प्रबोधचन्द्रस्य प्रकाशाह्लादरूपिणः || १५६ || स्थितेर्विसर्गरूपायाः पूरणात्तिथिसंज्ञिनः | स्वराश्च शब्दनात्मानः स्वपरामर्शविग्रहाः || १५७ || स्वयञ्च स्वप्रकाशार्थप्रकाशत्वेन राजनम् | कुर्वते सर्व एवैते यत्तात्पर्यवसानभूः || १५८ || सोमसूर्यात्मसंकोचविकासस्पन्दनात्मकः | (प्. १५) अध ऊर्ध्वविभागोद्यद् बिन्दुद्वितयविग्रहः || १५९ || कालेन कलनारूपपरामर्शात्मतात्मना | अवियुक्ततया भाति तिथीनां कालताजुषाम् || १६० || तेषामात्मा विसर्गाच्च भूत्वा प्रसरति स्वयम् | शेषः | एषैव बहिरप्यात्तसोमसूर्यात्मतात्मनाम् || १६१ || तिथीनां कालताभाजां याति नक्तंदिवात्मताम् | परेयं सा विसृष्टिः स्यात्तदिच्छेशनवर्तिनः || १६२ || वेद्यस्य बहिरुन्मेषे स्थूलसूक्ष्मत्वभेदतः | पृथ्व्यम्ब्वग्न्यानिलव्योमसंज्ञा यत्तत्त्वपञ्चकम् || १६३ || गन्धरूपरसस्पर्शशब्दनात्म च पञ्चकम् | स एव वेद्यस्योल्लासः स्पृश्यते करणात्मना || १६४ || यदा तदेन्द्रियाणां स्यात्कर्म ज्ञानात्मनां प्रथा | दशधोदेति वागाद्या प्राणाद्या तत्त्वरूपिणी || १६५ || ततः क्रमेण वेद्यत्वन्यग्भावे वेदनोद्गमे | मनोऽहंकरणं बुद्धिः प्रधानं पञ्चमः पुमान् || १६६ || इति तत्त्वानि जायन्ते पञ्च वेद्यानि तानि च | ननु पुंसो वेदकस्य वेद्येषु गणनं कथम् || १६७ || उच्यतेऽस्य मितत्वेन पुंसो वेद्येषु कीर्तनम् | तेनानेन विना कस्य वेद्यं पृथ्व्यादि तद्भवेत् || १६८ || उक्तक्रमं शिवो वेत्ति यतः सर्वं तदक्रमम् | अहमित्यात्मविश्रान्तं ममेति तु न जातुचित् || १६९ || यस्मात्तेन विना वेद्यं न स्यात् तत् पृथिवीमुखम् | तद्वेद्याभासनस्येयद्रूपं यद्वेद्यताजुषः || १७० || (प्. १६) देहादेर्वेद्यजातस्य भिन्नं वेद्यं प्रतिस्वतः | वेदकी भावना तत्र क्रियायां व्यावृता इमाः || १७१ || किंचित्कर्तृतया तस्य प्रेरिका वायवी कला | विद्या किंचिञ्ज्ञतृतास्य वाह्नी तस्य प्रकाशिका || १७२ || अभिष्वङ्गनिमग्नत्वस्तम्भनव्यावृतिस्फुरा | पार्थिवी रागशक्तिस्तच्चतुष्कात्मा नियामिका || १७३ || नियतिस्तस्य कार्येषु ताश्चतस्रो हि शक्तयः | वेद्यवेत्त्रात्मनोर्वित्त्योर्मध्ये विश्रमयन्त्रितम् || १७४ || रोदस्योरन्तरे यद्वत् त्रिशङ्कुमुनिशक्तयः | अन्यथेदंप्रथैकत्वादसौ लोष्ठादितां व्रजेत् || १७५ || अहंसंवेदनैकत्वे पूर्णं चित्खं समुत्पतेत् | प्रकारद्वितयेऽप्यस्य मायामातुरभावतः || १७६ || अकिंचनत्वे वेद्यस्य पृथ्व्यादेरपि तत्त्वतः | संकोचो वा विकासो वा न भवेद्वास्तवस्तदा || १७७ || अन्योन्याश्रयभावेन तयोरेकात्मता यतः | तद्विसर्गस्वरूपेण संकुचद्विकसत्तया || १७८ || अशेषमियदाक्षिप्तं यद्ग्राह्यग्राहकात्मकम् | अन्योन्यौचित्यतः सृष्टिः पदार्थानां प्रतायते || १७९ || शेषः | व्योमशक्तिस्त्वकायात्मा नात्र व्याप्रियते विधौ | अवेद्यत्वाच्च वेद्यानामवकाशत्वतश्च तत् || १८० || प्रमातृता परं सिद्ध्यै तया शुद्धा स्वयंप्रथा | शेषः | एवमारभ्य पृथिवीं मायान्ता तत्त्वविस्तृतिः || १८१ || (प्. १७) कादिमान्तपरामर्शरूपेयमपरोच्यते | वेद्यतायाः क्रमेणास्य न्यग्भावे संविदात्मनः || १८२ || प्रकाशने च रूपस्य प्रथते तत्त्वपञ्चकम् | कञ्चुकोन्मोचनारूपविकासब्रह्मनात्मकम् || १८३ || तद्धृत्याप्यायनालोकस्पन्दनव्यापनक्रियम् | सद्विद्येश्वरसादाख्यशक्तिसंवित्स्वरूपकम् || १८४ || सद्यादीशानपर्यन्तब्रह्मत्वेनापि विश्रुतम् | ककारादिक्षकारान्तपरामर्शशरीरकम् || १८५ || तदात्मा प्रसृतिस्तस्या वाचः सोक्ता परापरा | एवं विसर्गरूपत्वं प्राप्तात्तस्मादनुत्तरात् || १८६ || प्रसृतं तद्विसर्गस्य रूपं संवित्क्रियात्मकम् | अनुत्तरा या प्रसृतिर्हान्ता विश्वस्वरूपिणी || १८७ || प्रत्याहृताशेषविश्वानुत्तरे सा विलीयते | तदिदं विश्वमन्तस्थं शक्तौ सानुत्तरे परे || १८८ || तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः | विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः || १८९ || गर्भीकृतानन्तविश्वः श्रूयतेऽनुत्तरात्मता | इति निश्चितया नीत्या तस्मिन्नात्मन्यनुत्तरे || १९० || प्रत्याहृतैतद्वर्णौघपरामर्शप्रथात्मकम् | पुनः प्ररोहणौचित्यमयबीजात्मबिन्दुताम् || १९१ || प्राप्तं तथाविसर्गत्वनिसर्गं प्रतिपद्य च | विश्रम्य वपुरप्येवं प्रसृतिं प्रतिपद्यते || १९२ || यतो ममैतच्छक्तीनां चक्रमिच्छानुवर्तनम् | चिदानन्दैषणाज्ञानक्रियाणां भावयात्मनाम् || १९३ || (प्. १८) भूतकञ्चुकबीजत्वमौचित्येनाश्रितात्मनाम् | अनुत्तरेच्छोन्मेषात्मत्र्यश्रविश्रमितात्मकम् || १९४ || तथाह्यनुत्तरा तत्र चित्स्यादिच्छा त्रिधोद्यताम् | इष्यमाणार्थसद्भावा मीलनोन्मीलतत्त्वभाक् || १९५ || आनन्दः प्रथमांशेन मध्येनेच्छान्तिमेन सा | ज्ञानमुन्मेषशक्तिः स्यात् क्रियातस्तत् त्रयात्मकम् || १९६ || अविभागपरामर्शरूपं प्रथमतस्ततः | विभागामर्शवपुषा पञ्च तद्भेदमागतम् || १९७ || परामृश्यात्मना बाह्यतत्त्वजालञ्च जायते | परामर्शात्मता तस्य जीवितं तस्य मातृका || १९८ || उत्पत्तिभुमिस्तत्सैव मन्त्राणां गुप्तभाषिणाम् | चतुष्कलनवात्मादिबीजपिण्डतयोद्यताम् || १९९ || पुंरूपवाच्याध्यासेन भातां विद्यात्मनामपि | नमः शंभव इत्यादिस्फुटवेद्यार्थवाचिनाम् || २०० || स्त्रीरूपवाच्याध्यासेन भातां मायात्मनामपि | सर्वेषां कारणत्वेन चोच्यते .................................... || २०१ || तथाहि सर्वतन्त्रेषु यत्किंचित्तत्त्वमिष्यते | परापरविभूत्याप्तिपरतृप्तिप्रदायकम् || २०२ || तत्सर्वं लभते तत्त्वषट्त्रिंशत्यान्तरात्मनि | विमर्शजीवितत्वेन तस्याः सर्वविमर्शभूः || २०३ || सर्वं ददाति सा देवी मातृका तत्तदात्मिका | शेषः | एषोक्ता त्रिविधा सृष्टिरादिक्षान्ताक्षरात्मिका || २०४ || अनुत्तराच्चिदाकाशादक्षरादस्वरात्मनः | (प्. १९) प्रसृता कान्त तत्त्वौघा पुनर्विश्रमणोन्मुखी || २०५ || प्रत्याहृतसमस्तैतद्वाच्यवाचकचिन्मयी | तत्रैवानुत्तरे धाम्नि क्रमणं भजते शिवे || २०६ || तव ज्ञेयतयेदानीमात्मनोदाहृता मया | अनया ज्ञातयैवं हि त्वया ज्ञातमनुत्तरम् || २०७ || अखण्डपूर्णपरचित्प्रकाशस्पन्दनात्मकम् | सहजाहंपरामर्शशक्तिसंभाविताखिलम् || २०८ || वितत्य व्यक्तमेवैतदहमन्यत्ततोपि यत् | इति क्षयैव ज्ञातं स्यादत एवं यशस्विनी || २०९ || इयद्विश्वशरीरासि त्वमित्युद्धोष्यसे बुधैः | इयं किलोक्तविभवा तत्तत्त्वमिति निश्चयः || २१० || तदेवमविभागात्मा स्थिता पूर्वं हृदम्बरे | शक्तिर्विमर्शरूपा सा विभागामर्शरूपतः || २११ || समस्ततत्त्वसद्भावमयी कौलिकसिद्धिदा | अनेनैवोक्तरूपेणानुत्तरस्य ममात्मनः || २१२ || स्वातंत्र्येण विसर्गोऽसौ स्वीकरोतीति निश्चितम् | नन्वेते सन्ति भेदात्मपरामर्शमयोदयाः || २१३ || क्रमादाद्याः क्षकारान्तास्तदभेदमयोदयाः | प्रस्तुता वाङ्मयी शक्तिर्येयं भैरवतामयी || २१४ || यतो बीजादुदेत्येषा हृदयात्तव शाश्वतात् | तत्प्राप्तसर्वसंपत्तिसंप्राप्त्यमृतसागरे || २१५ || हृदयस्य स्वरूपे ते निश्चयाभावलक्षणः | संशयोऽद्यापि नोपैति च्यवनं मनसो मम || २१६ || तत्कर्तव्यमिदानीमित्येतदाशंक्य शासनम् | (प्. २०) तं च्यावयति सूत्रेण परेण परमेशितुः || २१७ || चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् | तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः || २१८ || संपूर्णानुत्तरानन्दसंवित्संपत्तिशालिना | क्रियाद्वारान्तरानीतवाञ्च्छाज्ञानद्वयश्रिया || २१९ || अशेषसंवित्संघट्टपरामर्शमयात्मना | चतुर्दशेन यदिदं स्वरेण सहितं तदा || २२० || तृतीयं ब्रह्म सादाख्यतत्त्वात्माघोरभासनम् | अहन्तान्तःकृतेदन्तारुपग्राह्यार्थलक्षणम् || २२१ || तद्विश्वं तत्तिथीशानां स्वराणामुक्तलक्षणम् | पर्यन्तभित्तिभूतोऽसौ य आत्मत्वेन निश्चितः || २२२ || विसर्गस्तत्र विश्राम्यदवियोगेन वर्तते | तदिदं हृदयं शब्दराशेः चिद्भरितात्मनः || २२३ || सर्वतत्त्वमयः कायस्तं चेदानीं शृणु प्रिये | पृथिवी कठिनत्वेन द्रवत्वेंऽभः प्रकीर्तितम् || २२४ || इत्यादि त्रिशिरोदेव(स्थित्या)स्त्रित्यायुपपन्नया (?) | तत्त्वैस्ततस्य देहस्य तन्त्रितस्य त्वगादिभिः || २२५ || साधुभिर्भिन्नसन्धानैस्तदशेषभिदोज्झितम् | तत्सत्तासंविदात्मत्वं सतत्त्वं सततोदितम् || २२६ || हृदयं पद्यतेरर्थतया यद्वदपेक्ष्यते | एवमेवात्मनः शम्भोः शब्दराशेः शरीरिणः || २२७ || विभक्ततत्त्वभूतादिप्रथासंतानतन्त्रितम् | परामर्शमयत्वेन पञ्चाशद्वर्णतात्मकम् || २२८ || विश्वं शरीरं यदिदं तदशेषभिदोज्झितम् | (प्. २१) तत्सत्ता संविदात्मत्वं सतत्त्वं सततोदितम् || २२९ || हृदयं विश्रमस्थानं सच्चिदानन्दलक्षणम् | हे विश्रान्तिमयाह्लादविमर्शमयविग्रहे ! || २३० || सुश्रोणि यदिदं प्रोक्तं शक्तित्रितयसंकुचत् | विकसत्वमयस्वात्मत्र्यश्रस्पन्दनसुन्दरम् || २३१ || तद्विद्धि हृदयं तस्य शब्दराशितनोर्मम | पराया आत्मभूतायाः परामर्शतनोश्चितेः || २३२ || एतदुक्तं भवत्येषा मामसौ संविदद्वया | एतेन तावत्स्पन्देन प्रोक्तबीजात्मना द्वयोः || २३३ || कोट्योरुदयविश्रान्तितत्त्वयोः स्पन्दते तथा | तत्प्रभावत एवार्थप्रकाशामर्शनात्मनि || २३४ || स्वात्मभैरवसंवित्तौ विसर्गात्मनि वक्ष्यते | तुर्यपर्यन्तरूपायाः क्षेपो विश्वव्यवस्थितेः || २३५ || एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् | हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || २३६ || विश्वस्य बीजमेतद्यो लभते पुण्यकृत्पुमान् | तदैवं न पशुः सोऽयं लब्धेऽस्मिन्नेतदेव हि || २३७ || जायते हृदयं तस्य सैतद्धृदयतैव यत् | भैरवत्वं ततो रुद्रयोगिनीयामलात्मनोः || २३८ || स्वात्मभैरवभैरव्योः स्वतोऽन्योन्यावियुक्तयोः | स्वरूपोन्मीलनात्मात्मवीर्यपानक्रियोद्यताम् || २३९ || दाम्पत्याज्जात एवासौ न लभेतैतदन्यथा | अस्मिन् ह्युन्मीलितेऽनेन हृदयेन सहैकता || २४० || एतद्धृदयलाभश्च स एवोक्तस्वरूपयोः | (प्. २२) दम्पत्योर्यामलावेशा मिषत्तद्भावलक्षणः || २४१ || एवमुन्मीलने जातमात्रे रूपमनुत्तरम् | यथा ददाति तत्सिद्धिं जीवन्मुक्तिमयीं पराम् || २४२ || तथा निर्णीतमधुना यथा तदपरा अपि | कुलसंबन्धिनी सिद्धिः त्यक्तान्यायासडम्बरम् || २४३ || स्वात्मसंवित्परामर्शबलादेव ददात्यमुम् | प्रकारं प्रकटीकर्तुं शासनोपक्रमः परम् || २४४ || अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् | सद्यस्तन्मुखतामेति स्वदेहावेशलक्षणम् || २४५ || एतत्संवित्स्वसत्त्वं चेद्धृदयत्वं प्रपद्यते | तदा स्याज्जिवतो मुक्तिः परा सिद्धिरितीरितम् || २४६ || यथा तदेव प्राणादिभूमिष्वाभाससंपदा | तद्रूपजाड्यमालिन्यसमुन्मूलनतत्त्वया || २४७ || रसधातुवदुक्तैतद्रूपतापादनात्मना | प्रसरद्रूपतामेति तदास्या देवसंविदः || २४८ || नाडीजयादिशास्त्रोक्तयोगसापेक्षतोज्झिताः | तत्समावेशपर्यायाः प्रसरात्संपदोऽखिलाः || २४९ || अपरा अपि जायन्त इति तात्पर्यवर्णना | अस्येत्यमुत आरभ्य जायते यजनं प्रति || २५० || इति पर्यवसानस्य शासनांशस्य विस्तृतेः | अथास्य बीजस्योच्चारे वक्ष्यमाणेन वर्त्मना || २५१ || तदुच्चारयितुस्तस्य तदुद्योगक्रियात्मनि | प्राणात्मतायां जाते तु समावेशपुरोदिते || २५२ || ज्ञानक्रियाशरीराया मन्त्रमुद्रामहौजसः | (प्. २३) विद्यन्ते गणनातीतविभवा गणशः स्थिताः || २५३ || आभिमुख्यं भजन्त्येताः स्वदेहावेशतः कथम् | संपूर्णे वित्क्रियात्मोक्तहृदयैकात्मताजुषा || २५४ || प्राणेनाधिष्ठितेनाहन्ताद्वारेण तदात्मकम् | अवश्यं कम्पघूर्ण्यादिविधायिन्यो भवन्ति ताः || २५५ || मन्त्रमुद्रागणावेशो जातो यः प्राणदेहयोः | अयं तावद्विभूतीनामुपक्रमतयोच्यते || २५६ || तदा यत्नतया तासां ता हि तत्सिद्धिसाधने | देवतात्वेन तद्वीर्यरूपत्वेन च सन्निधिम् || २५७ || कुर्वाणाः साधकस्यास्य साधयन्ति समीहितम् | मुहूर्तं स्मरते यस्तु चुम्बकेनाभिमुद्रितः || २५८ || स बध्नाति तदा देहे मन्त्रमुद्रागणं महत् | अतीतानागतानर्थान्पृष्टोऽसौ कथयत्यपि || २५९ || तथाविधं समावेशं यदि नाडीद्वयावधिम् | अभ्यस्यति मुखं कुर्वन्काकचञ्चुपुटाकृति || २६० || बहिश्चोच्छिष्टभावौघभक्षणोद्योगभावितः | सद्वृत्तिरूपसोमात्मशीतस्पर्शोदयावधिः || २६१ || उच्चरन् हृदयं पीतवियच्चरसमीरणः | प्राणेन स्पर्शरूपेण प्रोक्तेनैकत्वमानयन् || २६२ || नाभिस्थानस्थितस्वात्मवैश्वानरहुताशनिः | तज्ज्वालात्मक्रियारूपां तत्प्रीतष्टां समाचरन् || २६३ || अपारजलधिप्रख्यामाश्रयन् कामपि स्थितिम् | आस्ते यदा तदा देहे वाग्रूपे कायलक्षणे || २६४ || मन्त्रमुद्रागणावेशमवशत्वेन पश्यति | (प्. २४) प्रष्टश्च प्रतिवक्त्येष वस्तु कालत्रयोदितम् || २६५ || तद्ग्रासात्प्राप्ततद्भावधिषणादत्तबिम्बितम् | प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् || २६६ || साक्षात् पश्यत्यसन्दिग्धमाकृष्टं रुद्रशक्तिभिः | प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् || २६७ || अवैतथ्येन जातायां सिद्धौ तत्कथनात्मनि | अप्यनुज्झितपूर्वोक्ततादृशाभ्यासकौशलः || २६८ || कांचिन्मन्त्रमयीं मुद्रामयीं वा देवतां स्मरन् | आस्ते चेद्यामपर्यन्तकालग्रासात्मचित्क्रियः || २६९ || तदानीं तदवष्टम्भसामर्थ्यापादितात्मताम् | तामेव देवतां तत्तद्वेषभूषादिलक्षिताम् || २७० || अध्यक्षयत्यसन्दिग्धं निजाहंसंविदात्मिकाम् | पुनरप्येवमेवेममभ्यासमपरित्यजन् || २७१ || यावद्धृदयमास्तेऽसौ तदेकात्मा यदा तदा | देहादिकं न किंचित्स्वमावृतित्वेन पश्यति || २७२ || अनावरणचिद्व्योमरूपं सर्वमपीक्षते | त्रयेण मातरः सर्वा योगीश्वर्यो महाबलाः || २७३ || वीरा वीरेश्वराः सिद्धाः बलवान् शाकिनीगणः | आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः || २७४ || यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् | स्वेनान्यदेहकं येन देहेनानेन भाविते || २७५ || सर्वात्मना क्षयं याते स्वस्यावच्छेदने सति | पुनरप्यनवच्छिन्नस्वसमावेशपुष्कलः || २७६ || यामत्रितयमास्ते च तदेतच्चास्य नोदिताः | (प्. २५) ब्राह्म्याद्या मातरस्तत्तामाप्ता योगीश्वरीगणाः || २७७ || त्रिपूर्वशास्त्रनिर्दिष्टा वीरा वीरेश्वराश्च ये | अघोरमुख्याः श्रीमन्तो नपेशाद्यास्तदीश्वराः (?) || २७८ || तद्रूपावाप्तसिद्ध्या ये सिद्धाः साधकपुङ्गवाः | खेचर्यादिभिदाभाजां शक्तीनां शक्तताजुषाम् || २७९ || मात्रन्तर्बाह्यकरणमेयप्रमितलक्षणम् | प्रमातुरात्मनः शंभोः स्फूर्तिः स्वातंत्र्यसंपदाम् || २८० || या चैषा भाति ते सर्वे स्वात्मनो भैरवात्मनः | बलेन हि महाविश्वहठात्मीकरणात्मना || २८१ || बीजरूपेण वीर्येण हृदयेनैकतां गताः | स्वरूपाच्छादने कादिधारणान्ताक्षरात्मनि || २८२ || भोगेऽवभासने स्वस्य शादिक्षान्तान्तरात्मनि | तुर्यवृत्तिमयस्वात्मसंविद्ध्याप्तोक्ततत्रये (?) || २८३ || भुक्तिमुक्त्युभयास्वादे स्वचिच्चक्रानुजीवने | कर्त्रेषितृज्ञातृमयस्वप्रथामर्शनात्मनि || २८४ || विमर्शनस्वरूपस्य विसर्गात्मन्यनुत्तरे | आनन्दकेवलात्मीयप्रथास्वादोदयात्मनि || २८५ || कैवल्ये चात्मता तेन भैरवेणेयतः फलम् | अभ्यासिने प्रदातव्यमियदित्येवमात्मना || २८६ || व्यवस्थया प्रकर्षेण चोदितास्तदधीशिना | ....................एव तदाविष्टशरीरादेस्तदात्मनः || २८७ || स्थिता अनुचरत्वेन पुरतो देवतागणाः | .............................षमावेशैकलक्षणः || २८८ || योगो य एष देहादेर्हृदैक्यापादनात्मना | (प्. २६) समावेशेन कालस्य ग्रासे संकलनात्मनः || २८९ || अभ्यस्यंस्तं विनाप्येष शक्तीनामुक्तलक्षणम् | सामान्यशक्तिचक्रेशस्वरूपाध्यवसात्मकम् || २९० || भवेत्तदीशतासिद्धियोग्यतां लभते च यत् | तथात्मत्वेन तासां च चक्रेऽनैति समानताम् || २९१ || यतश्च यजने येयमितिकर्तव्यतोच्यते | तत्क्रियापूरकत्वेन तामविद्वानपि त्वयम् || २९२ || ज्ञातेन हृदयेनैव पूरणात्सर्ववस्तुनः | विद्वान्भवति यश्चैष शङ्कासंकोचवर्तिनः || २९३ || विधीन् नियामकत्वेन न जानात्यात्मनोऽखिलान् | अपि तान् ज्ञातवानेव यतो विधिमनुत्तरम् || २९४ || चिदात्मस्वविमर्शात्महृदयैक्यस्वलक्षणम् | जानाति ननु चोक्तैतत्परामर्शात्मसात्कृतौ || २९५ || यागेन भाव्यं मैवं यत्तस्मिन्नात्मन्यनुत्तरे | तद्योजनैव यजनं तत्तामात्रो ह्यनुत्तरः || २९६ || अतो नयेऽस्मिन्निखिलं विधानविधिरूपकम् | बहिरङ्गं भवत्यन्यदिति यागः क्रियामयः || २९७ || पूर्वभावितया चास्य ग्रहणे येन चोदिता | ननु यत्पूर्वमुक्तं मे हृदयं भवतोरिति || २९८ || बीजं चतुर्दशेत्यादि तदुद्धारोपदेशने | तस्यान्तस्तत्त्वषट्त्रिंशद्रूपविश्वात्मताजुषः || २९९ || शक्तिसंपूर्तिरूपाया परायाश्चात्मनश्चितेः | विमर्शयति सद्भावमित्याशंक्य निरूप्यते || ३०० || कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् | (प्. २७) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् || ३०१ || तदन्तर्वर्ति यत्किंचिच्छुद्धमार्गे व्यवस्थितम् | अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्रुते || ३०२ || तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः | सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः || ३०३ || यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं सर्वमेतच्चराचरम् || ३०४ || यथा घटशरावादिविकारानवलोकने | गन्धता तदनामर्शे क्रमेणाहंकृतात्मता || ३०५ || यथा भूतभिदाभङ्गे सुखादित्रयरूपता | वेद्यवेदकतामात्रा तस्याः पार्यन्तिकी स्थितिः || ३०६ || तद्रूपकञ्चुकामर्शवञ्चने तस्य विश्रमः | ब्रह्मपञ्चकरूपायां सत्तायामेव जायते || ३०७ || सदित्यस्यापि रूपस्य प्रत्ययांशापहस्तने | बीजाद्यवर्णमात्रा स्याद्विश्रान्तिः पारमार्थिकी || ३०८ || एवं जलादिमायान्ततत्त्वरूपस्य वस्तुनः | सर्वस्य सैव विश्रान्तिरन्त्येत्यत्रान्त्यविश्रमे || ३०९ || सर्वमेकघनं विश्वं तद्रूपस्यापरिच्युतेः | अमृतीभूतमभ्येति प्रकृतिं ब्रह्मरूपताम् || ३१० || सदेव सौम्य ब्रह्मेदमग्र इत्यध्यवस्यताम् | विश्रान्तिस्तावति ब्रह्मवादिनां श्रुतिवेदिनाम् || ३११ || तन्निर्मन्थनवृत्त्या तु भैरवो विश्वसृष्टिकृत् | गीतं च गुरुणा सूनोः प्रथायास्तत्त्वबोधने || ३१२ || मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् | (प्. २८) यदा सतोऽस्य विश्रान्तिधाम्नोऽप्यनवलोकनम् || ३१३ || तदा प्रथा विमर्शात्मशक्तिविश्रामितात्मनः | प्रकाशमानता सिद्धिरस्येत्यस्य तदेकता || ३१४ || सा च वाञ्छाक्रियाज्ञानशक्तिष्वन्यतमा भवेत् | सर्वं वस्तु सदिच्छामि जानामित्यादिसंविदि || ३१५ || विश्रम्य व्यवहाराय नियतायोपकल्पते | इच्छामीत्यत्र केच्छायामस्ति ज्ञानक्रियात्मता || ३१६ || प्रथा संरम्भरूपायामेवमेवान्ययोरपि | अस्त्येवान्योन्यरूपत्वमतस्तत्त्रितयात्मनि || ३१७ || शक्तौ त्रिशूलरूपायां तद्विश्रान्तं प्रकाशते | तस्यापि तत्त्रयस्यैकं स्वतन्त्रं कर्तृतत्त्वतः || ३१८ || अध ऊर्ध्वोद्यदिन्द्वर्कमयबिन्दुद्वयात्मता | विश्वविश्वोत्तरस्वात्मव्यञ्जनस्वरतामयी || ३१९ || ज्ञेयाद्युपायसंघातनिरपेक्षाद्वयोदयात् | ज्ञप्तिञ्च ज्ञातृतारूपामहमित्याश्रयत्तनुम् || ३२० || प्रकाशमानमेवात्मरूपं तात्त्विक इष्यते | तदेतद्वेद्यविद्वेत्तृविश्रान्तित्रयलक्षणम् || ३२१ || बीजस्य रूपमित्युक्तं भवत्यत्र हि विश्वता | संपूर्णशक्तिरूपत्वं स्वात्मभैरवरूपता || ३२२ || एवं हृदयरूपायाः सिद्धा आसंश्चितेरिमाः | प्रधानीकुरुते तत्र यां विश्रान्तिं तदन्तता || ३२३ || तदंशाध्यवसायत्वप्राप्तान्यांशद्वयोदया | बीजोच्चारस्य रूपं स्यान्नतु तत्तत्कलान्तता || ३२४ || भुक्तिश्च भुक्तिमुक्ति च मुक्तिश्चेत्यत्र सिद्धयः | (प्. २९) स्वात्मभैरवचिद्रपे प्रकाशेऽहमिदन्तया || ३२५ || इच्छादिशक्तिद्वारेण सतः पूर्वोक्तलक्षणः | अक्रमक्रमरूपेण क्षेपो वैसर्गिकी स्थितिः || ३२६ || सद्रूपमेतद्वेद्यञ्च वेदकं भैरवात्मकम् | उभयस्पर्शनाच्छक्तिरूपा चातुर्दशी स्थितिः || ३२७ || अवरोहक्रमेणैव वेत्तृवेदनरूपतः | वेद्यविदितृसामान्यरूपता ब्रह्मणि स्थितिः || ३२८ || शान्तोदितोभयात्मैतत्त्र्यश्रैकरसतामयी | परा विसर्गता यस्य विश्रान्तित्वेन सम्मता || ३२९ || विश्वात्मा पूर्णशक्तिश्च नाथो भैरव एव सः | इति कालाग्निमित्यादेः सर्वमेतच्चराचरम् || ३३० || इत्यन्तस्यागमांशस्य तात्पर्यमवधार्यताम् | ग्रन्थोऽथ योज्यते पृथ्व्यां यन्निवृत्तिकलात्मनि || ३३१ || पुरषोडशकं प्रोक्तं कालाग्न्यादि तथा च यत् | जलादिमूलपर्यन्ते प्रतिष्ठाख्याकलात्मनि || ३३२ || नकुलीशादिषट्पञ्चाशत्संख्यात्मकं पुरं स्थितम् | पुमादिमायापर्यन्ते विद्यात्मनि च या स्थिता || ३३३ || पुराष्टाविंशतिर्वामप्रमुखा तैः शतात्मभिः | भुवनैः सह पृथ्व्यादिमायान्तं तत्त्वमण्डलम् || ३३४ || पुरैर्हालाहलारम्भैरष्टादशभिराचिते | शान्तितत्पररूपान्यकलाद्वितयविग्रहे || ३३५ || उक्तस्य ब्रह्मणो देहे तत्त्वपञ्चकलक्षणे | कादिहान्तपरामर्शरूपं विश्रान्तिमृच्छति || ३३६ || षट्त्रिंशत्तत्त्वरूपस्य सतोऽस्य व्यञ्जनात्मनः | (प्. ३०) आदीः कर्तृज्ञेतृज्ञातृमयो ह्रस्वत्रयात्मकः || ३३७ || शिवः स्वरात्मा यो या च तदिच्छा शक्तिरूपिणी | अनुत्तरा परेच्छा च परापरतया स्थिता || ३३८ || उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते | इत्यानन्देशनोनत्वमयदीर्घस्वरात्मिका (?) || ३३९ || शिवा शक्तित्रयमयी स्यात्तद् बिन्द्वन्तवेदना | तदेतद् द्वितयं कर्तृक्रियारूपमनुत्तरे || ३४० || विसर्गात्मनि चिद्रूपे स्वतन्त्रेऽनन्तनामनि | न विद्यतेऽन्यपर्यायो यस्यान्तस्तत्र चात्मनः || ३४१ || अशेषशक्तिसंघट्टपरामर्शमयात्मनि | तुर्यसन्ध्यर्णरूपायां चितौ चानुत्तरेशितुः || ३४२ || विश्राम्यति य एषोऽस्य शब्दराशिमहातनोः | विसर्गस्यात्तविश्वस्य चोदकत्वेन वर्तते || ३४३ || चतुर्दशमयः प्राणः शिवस्यात्मतया शिवः | स एव शुद्धविद्यादौ शिवान्ते तत्त्वपञ्चके || ३४४ || स्वव्यापिब्रह्मणो देहे सतोऽव्यापकतां भजन् | ज्ञेयस्तत्रांशतो विद्यामायात्मात्वाद्यपर्वणि (?) || ३४५ || भिन्नस्य भिन्नाभिन्नस्य सर्वस्य ज्ञातृतापदम् | स्वमायासङ्कटोत्तीर्णं प्राप्नोति परमेशिताम् || ३४६ || पाशैरागन्तुकैर्मायाविभ्रमैः कञ्चुकात्मभिः | वियोगात्स्वैरसञ्चारो भवेत्संविन्मयोऽम्बरे || ३४७ || सहजाणववैकल्यसिद्धिसंभावनापरम् | वैमल्यमीऽस्वराख्ये च द्वितीये याति पर्वणि || ३४८ || तथा पर्वणि सादाख्ये तृतीये वेद्यलक्षणः | (प्. ३१) इदं प्रतीतिरूपस्य विश्वरूपस्य वस्तुनः || ३४९ || आच्छादितत्वात्स्वं वीर्यं प्रत्याहृतसमस्तया | अहमाशान्तकल्लोलश्चिदब्धिः स्वास्थ्यमश्नुते || ३५० || शक्तिरूपे तथा स्वस्मिन्नन्यसापेक्षतोज्झिते | स्वभानादात्मनः पूर्णादवियोगिन्यनश्वरे || ३५१ || आत्मन्यायतते तिष्ठन् बुद्ध्यते स्वस्य पूर्णताम् | तत एव शिवाख्येऽस्मिन्नशुद्धेर्भेदलक्षणः || ३५२ || सर्वात्मना तिरोधानाच्छुचिः संवर्तको भवन् | कर्षानुत्तरसंघट्टत्र्यश्रसंविन्नभोऽन्तरे (?) || ३५३ || स्वाहाज्वालासमालीढतत्त्वौघो ज्वलति स्वयम् | एवं चोदकरूपस्य शिवस्यैवं स्वरूपतः || ३५४ || एतद्विश्रान्तिनिष्ठोऽणुरुक्तेनाभ्यासवर्त्मना | मुहूर्तादिक्रमेणैव पुरोक्ते तत्त्वपञ्चके || ३५५ || शुद्धाशुद्धाध्वरूपे यद्वर्तते दृक्क्रियामयम् | स्वातन्त्र्यमैश्वरं सर्वमश्नुते तत्परः परम् || ३५६ || एवं मुक्तिमयी भुक्तिः फलत्वेनास्य कीर्तिता | चोदकाभ्यासनिष्ठस्य विसर्गांशव्यवस्थितेः || ५५७ || मुक्तिर्ब्रह्मांशनिष्ठस्य भुक्तिश्चैकेति सूचिता | चतुर्थ्यां परविश्रान्तौ सर्वमेकरसात्मना || ५५८ || अभेदेनैतदुक्तं तत्त्रयमास्ते यथा महान् | वृक्षो न्यग्रोधधानायां तद्धानात्मस्वरूपया || ५५९ || तच्छक्त्यैवात्मना भाति तथात्र हृदयात्मनि | बीजे तच्छक्तिभेदेन चरं शुद्धं प्रमातृ च || ३६० || अचरञ्च तथाशुद्धं मेययं च प्रथतेऽखिलम् | (प्. ३२) तस्माद्यत् सूचितं पूर्वं सद्यो योगविमोक्षदम् || ३६१ || अरुद्रयोगिनीजातो न लभेतैतदित्यतः | स्वात्मचिद्भैरवावेशमात्रसिद्धिप्रयोजनम् || ३६२ || तदेतदुपसंहारद्वारा प्रकटमुच्यते | एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी || ३६३ || दीक्षा भवत्यसंदिग्धा तिलाद्याहुतिवर्जिता | एवमुक्तेन रूपेन निःशङ्कत्वेन निश्चितः || ३६४ || यो वेत्ति हृदयत्वेन बीजमेतद्विकस्वरम् | तस्यास्य परमार्थेन दीक्षा निर्वाणसत्फला || ३६५ || भवत्येवास्तसन्देहा तथा ह्येष स्वसंविदा | एतद्धृदयतालाभे तद्गताभिस्तदात्मभिः || ३६६ || संविद्भिर्दत्तमेवैतत्पूर्वं हृदयलक्षणम् | ज्ञानं क्षपितमेवैवं संकोचात्म च पाशवम् || ३६७ || जानात्येव ततो दीक्षा दानक्षपणलक्षणा | स्वप्रतीतिप्रथासारा सैषा ज्ञानस्वरूपिणी || ३६८ || अतो नात्र तिलादीनामुपयोगः क्रमात्मनाम् | एतावज्जीवतो मुक्तिमात्रनिष्ठितचेतसः || ३६९ || एतल्लाभादिकं किंचिन्नोपयोगीति दर्शितम् | अधुना तु समावेशाभ्यासार्थमुपयोगवान् || ३७० || पूजाविधिः स वक्तव्यो यतो वक्ष्यति शासनम् | कृतपूजाविधिर्बीजं स्मरन् स्यात्सिद्धिभागिति || ३७१ || तस्मादत्र शरीरादौ तदभ्यासोपदर्शनम् | कृतं करिष्यते चेति विधातुं तत्र हृन्मतिम् || ३७२ || प्राप्तं तालमनुक्तादौ न्यासमेवाह शासनम् | (प्. ३३) मूर्ध्नि वक्त्त्रे च हृदये गुह्ये मूर्त्तौ तथैव च || ३७३ || न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् | एकैकेन दिशां बन्धं दशानामपि कारयेत् || ३७४ || तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये | पुष्पादिकं क्रमात्सर्वं लिङ्गं वा स्थण्डिलं चवा || ३७५ || शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः | स्वचैतन्यैकतानीतजगत्त्रित्वोदयात्मकम् || ३७६ || वाचः पराया वक्त्यर्थरूपाया हृदयात्मनः | विवक्षाध्यवसोक्त्यात्मपश्यन्त्यादिक्रमात्मनः || ३७७ || परादिशक्तिरूपेण प्रसरत्त्रित्वसूचकम् | मातृमानार्थसद्भाववाच्यांशत्रितयात्मकम् || ३७८ || हृदयं भैरवीयं तदात्मत्वेनावधारयन् | तदंशोऽन्तरुपांशूच्चैः शब्दनक्रमलक्षणम् || ३७९ || शक्त्यादिचतुरण्डोद्यत्पातालक्ष्मान्तरिक्षगान् | सर्वान् शमयितुं विघान् भेदतद्धीमयान्विभून् || ३८० || तालत्रयं पार्ष्णिहस्तमुखशब्दनमाचरन् | स्वीकुर्वन्मातृमापीयत्रयसद्भावलक्षणम् || ३८१ || सृष्टिं स्वकीयामाविश्य संविदं शक्तिमादितः | जन्मचारप्रवाहाख्यलयविच्छित्तिलक्षणाः || ३८२ || दृश्यमानाः शरीरेऽत्र स्वकीये सततोदिताः | आत्मनो भैरवीयस्य हृदयामृतवारिघेः || ३८३ || चिदानन्दैषणाज्ञानक्रियाख्याः स्पन्दसंपदः | विमृश्य हृदयेऽत्रैव सर्वतत्त्वमये निजे || ३८४ || भाति देहतया कास्यहृद्गुह्याङ्घ्रिह(?)यात्मता | (प्. ३४) पञ्चकृत्वो न्यसेद्बीजं तेषु स्थानेषु पञ्चसु || ३८५ || विश्वसत्तामयब्रह्मपञ्चकस्फूर्त्तिलक्ष्मसु | एवं हृदयविद्वद्भिः समाश्लेषात्तदात्मनः || ३८६ || शिखावतोऽस्य देहस्य या शिखा संविशिष्यते | तद्व्यापकतया द्योतत्तज्ज्वालारूपणोचिते || ३८७ || बुद्धिप्राणमयात्मीयप्रकाशस्पन्दनात्मता | तस्याः स्वव्यापितद्देहषट्त्रिंशत्तत्त्वरूपता || ३८८ || तासामन्योन्यभावेन प्रत्येकं पञ्चकात्मता | शक्तीनां पञ्चविंशत्या प्रोक्ताभ्यां च तदात्मनः || ३८९ || द्वाभ्यामुभयविश्रान्तितत्त्वाभ्यां तत्त्वसंपदम् | जातया सप्तविंशत्या बीजोच्चारस्वरूपया || ३९० || विमृश्य बन्धनं कुर्यात् तत्त्वेत्यनियमात्मकम् | स्थूले सूक्ष्मे परे देहे कृत्वैवं हृदयात्मताम् || ३९१ || दिशो दिशापि हृदयपरामर्शैकशेषताम् | नयेत्सकृत्सकृद्बीजं स्मरन्नास्ते कृताखिलः || ३९२ || अथार्घ्यपात्रविश्रान्तपरानन्दरसस्य च | शिखासमाधिनाधाय हृदयैकस्वरूपताम् || ३९३ || तक्षणाभ्युक्षणद्वारा कृत्वेदन्तां विलापयेत् | पूजोपयोगिपु.पौघं तदेकरसतां नयेत् || ३९४ || पूजाधिकरणं लिङ्गं स्वान्तादि च यथोदितम् | सामान्यतो विशेषाच्च कृत्वैवं भेदधिलयम् || ३९५ || हृदयैकात्मतां नीते तत्त्वादौ वेद्यविस्तरे | आधाराभिमते क्वापि संभवत्यत्र वस्तुनि || ३९६ || पूज्यस्वरूपनिष्कर्षपूर्वं पूजोच्यतेऽधुना | (प्. ३५) चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना || ३९७ || तत्र सृष्टिं यजेद्धिरः पुनरेवासनं ततः | सृष्टिं तु संपुटीकृत्य पश्चाद्यजनमाचरेत् || ३९८ || सर्वतत्त्वसुसंपूर्णां सर्वावयवभूषिताम् | यजेद्देवीं महेशानीं सप्तविंशतिमन्त्रिताम् || ३९९ || ततः सुगन्धिपुष्पैश्च यथाशक्त्या समर्चयेत् | पूजयेत्परया भक्त्या आत्मानं च निवेदयेत् || ४०० || यैषा विस्पष्टताद्यात्मजागरादिप्रथामयी | पृथिव्यादिपुमन्तानां तत्त्वानां पञ्चविंशतिः || ४०१ || तत्संभावमयीमाद्यां कलां हृदयसंविदः | आद्यं पर्वात्मतत्त्वाख्यं तदुन्मेषोनतात्मकम् || ४०२ || तद्भिन्नाभिन्नसंवित्तिकञ्चुकब्रह्मविग्रहम् | तत्त्वद्वयं शक्तिशंभुमयं व्याप्यावभासिनीम् || ४०३ || त्रिशूलरूपिणीं वृत्तिं तुरीयामुत्तरं तथा | परामृश्यासनांशस्य पर्वतद्द्वयविग्रहे || ४०४ || आसनेऽस्मिन्नशेषैतत्सद्रसैकत्वचिन्मयीम् | आत्मनोऽनुत्तरस्यात्मभूतां भैरवरूपिणः || ४०५ || स्वान्तः स्थाव्यतिरेकेण क्षिप्त्वादिक्षान्तसृष्टिकाम् | विसर्गरूपिणीं वृत्तिं तुर्यातीतात्मिकां पराम् || ४०६ || विमृश्य देवतां पूज्यां विसर्गं बीजमुच्चरन् | पुष्पेण तां प्रतिष्ठाप्य तस्यां तत्तादृशात्मनि || ४०७ || तदासनांशविश्रान्ततत्त्वक्रमशरीरिणीम् | अशेषां वाङ्गमयीं सृष्टिं तुर्याद्याभोगशालिनीम् || ४०८ || क्षिपेद्येन विसर्गोऽयं तन्मध्यस्थानुभावतः | (प्. ३६) तदुत्तिर्णी तदात्मानं सर्वक्रमशरीरिणीम् || ४०९ || सर्वैरवयवीभूतैर्भूषितां भावराशिभिः | स्वात्मीकृत्य स्वयं भाति कला सा तादृशी परा || ४१० || ततस्तादृशतद्रूपस्वरूपामर्शरूढये | हृदयङ्गमतारूप - सौरभ्यभरितोदयैः || ४११ || स्वात्मार्पणवशात्तस्मिंस्तस्य रूपस्य पोषकैः | पुष्पादिसद्भावजातैरुपचारैर्यथोदितैः || ४१२ || तां देवतां तदात्मत्वचमत्काररसात्मना | पूर्णया स्वस्य संवित्त्या तत्पूर्त्यादर्शरूपया || ४१३ || स्नानधूपाञ्जनालेपताम्बूलासवमुख्यया | बाह्यया चापि संपत्त्या पूजयेत्सम्यगात्मनः || ४१४ || देहादिना निमग्नत्वमयप्रहृत्यपूर्वया | तत्पूज्यदेवतासंविदुत्कर्षामर्शरूपया || ४१५ || तदेकरसतावेशश्रद्धातिशयतत्त्वया | भक्त्या भजनरूपिण्या परया पूर्णरूपया || ४१६ || परा च याऽसौ पुष्पादेर्भक्तिः पूजोपयोगिनी | उक्तैतत्स्वात्महृदयहठावेशक्रियापदः || ४१७ || भागः परिमलाद्यात्मा तच्छक्तिस्तत्स्वरूपया | भक्त्येत्युक्तेन रूपेण पूजायाः पूर्तिलक्षणः || ४१८ || संपूर्यमाणमात्मानं सर्वाभेदघनां चितिम् | सप्तविंशतिवारोक्तहृदयामर्शनक्रियः || ४१९ || निश्चितेनात्मभावेन .......................................... (?) | नियतेनात्मभावेन नियमेनामृशेन्मुहुः || ४२० || एषा पूजोदिता तावदस्याः पूर्तीहलक्षणा | (प्. ३७) सा भोक्त्र्याः संविदस्तस्या भुक्तायास्तत्त्वपद्धतेः || ४२१ || पुनः प्ररोहौचित्यात्मसंस्कारात्मतया स्थितिम् | अजीर्णेव भिदा जन्मव्यापिशंकोदयावधिम् || ४२२ || न भवेद्भस्मसाद्भावतद्भोग्यत्वविलापनम् | अतीत्वेत्याशयेनैनां सपर्यामुपसंहरन् || ४२३ || सूचयत्यतिदिष्टेन विधानेन हुतिक्रियाम् | एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः || ४२४ || हुतिक्रियायां तत्रापि तद्विभूतार्घ्यविप्रुषा | अभ्युक्षणं तिलादीनां स्रुक्स्रुवादेर्हुताशनः || ४२५ || हुताशने च पूर्वोक्तवर्त्मनासनकल्पनम् | भोक्तृस्वरूपनिष्कर्षस्तत्राक्षेपो जगत्स्थितेः || ४२६ || तद्भुक्ततत्त्वसंस्काररूपभोग्यविलापनम् | हवनेन तिलादीनां षट्त्रिंशत्तत्त्वताजुषाम् || ४२७ || तदेकरसतावेशतत्त्वात्मा वर्णरूपिणी | पूर्णाहुतिक्रियेत्येवं तत्प्रकारः प्रतीयताम् || ४२८ || एवं यजनहोमात्मा पूजैषा पूर्तिरूपिणी | आभ्यन्तरत्वसंकॢप्त्या बाह्यद्रव्योपसंहृतेः || ४२९ || निवर्तितेन भावेन सूत्रे पश्चात्तु संगतिः | कृतपूजाविधिः सम्यक्स्मरन्बीजं प्रसिद्ध्यति || ४३० || ......................................षम्यक् चेत्तेन वर्त्मना | वक्ष्यमाणेन विश्वस्य बीजं हृदयमात्मनः || ४३१ || स्मृतिरूपपरामर्शविषयत्वं समानयन् | सम्यक् चापास्तसन्देहविभ्रमावाप्तिलक्षणाः || ४३२ || प्रकृष्टेन प्रकारेण सिद्धिः पूर्वोक्तलक्षणाः | (प्. ३८) त्रैकाल्यदर्शनाद्यास्ता भगवान् भैरवो यथा || ४३३ || आप्त्वानेनैव देहेन प्रसिद्धो भुवने भवेत् | बीजात्मनो विमर्शस्य भातोऽप्यभिनवात्मनः || ४३४ || अस्य पूर्वा(र्णा)दिरूपेण स्वरूपेणावभासनात् | अपास्तकालकलनाभेदयोगितयोद्यतः || ४३५ || आभासनीलरूपस्य सर्वथाभ्यन्तरस्य च | सतोऽवभासनादुक्तं विश्रान्तित्रयलक्ष्मणः || ४३६ || वस्तुनः स्मृतिसादृश्यात्स्मृतित्वेनोपदेशनम् | शत्रा च प्रत्ययेनास्तविच्छेदस्वापभासनम् || ४३७ || परामृष्टारमादेवं वन्दे (?) दर्शयता शिवम् | सूच्यतेऽयं परामर्शः तथा स्वीक्रियतां यथा || ४३८ || उक्ताद्विच्छेदराहित्यादकालकलितत्वतः | सकृदक्रमरूपेण विशेषेणात्मतात्मना || ४३९ || भाति स्वानुभवेनैव प्रमाणेनास्तसंशयम् | इति नन्विदमुक्तं यत् सम्यक् बीजं स्मरन्निति || ४४० || तत्सम्यक्त्वं स्मृतेरस्याः पूर्वं यद्यपि दर्शितम् | कालाग्निमादीत्यनेन ग्रन्थेन विततात्मना || ४४१ || तथापि स्फुटताभाजा रूपेणास्य विनिर्णयम् | विधातुं विधिरूपेण निरूपयति शासनम् || ४४२ || आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् | हृत्पद्मान्तगत ध्यायेत्सोमांशुं नित्यमभ्यसेत् || ४४३ || बीजं वाचकरूपं यद्वाच्यः सोमांशुरस्य यः | उमया स्वात्मसंवित्त्या विश्वोत्तरतदात्मना || ४४४ || आत्मनोदयमानोऽसावात्मा सोमस्य भात्मनः | (प्. ३९) ज्ञातृताकर्तृतारूपयामलात्मा स्वतन्त्रता || ४४५ || इच्छादिसंविच्छक्त्यैक्यमयी संघट्टरूपता | पृथ्व्यादिशिवपर्यन्तषट्त्रिंशत् स्फूर्तीरूपता || ४४६ || इत्येतत्त्रितयात्मा च प्रकाशः सार्वकालिकः | द्वयं तदपि भेदेन वाच्यवाचकतात्मना || ४४७ || अभ्यसेदुपदेशो यः पाठे सोमाशुमित्यतः | सोमांशमिति पाठे तु पूर्णचिच्चन्द्रलक्षणः || ४४८ || प्रकाशानन्दसद्भावमत एव स्वभावतः | ज्वलनं गलनं चैव वृत्तिं सारयताश्रयन् || ४४९ || संकुचद्विकसत्त्वेन तेन स्वातन्त्र्यलक्ष्मणा | प्रदर्शयन्पृथिव्यादिशिवान्तां तत्त्वविस्तृतिम् || ४५० || तदुन्मेषनिमेषात्मसंविच्छतततोदयम् | तत्संपादनसामर्थ्यसतत्त्वस्वपुरामयम् || ४५१ || सकारौकाराःकारात्मस्वकीयांशत्रयात्मना | उत्तरोत्तरमाविष्टं शश्वत् भागत्रयेण च || ४५२ || अनुत्तरत्रिकोणात्म यदेतद्धृदयं महत् | सोमश्चांशाश्च सोमांशमिति सामस्त्यमानतः || ४५३ || समाहारस्वरूपेण द्वन्द्वेनापादितोदयम् | तदेतदाभिमुख्येन स्वसंविद्रूपविश्रमम् || ४५४ || चतुष्कं शून्यधीप्राणदेहात्मनि चतुष्टये | चतुष्टयं तूत्तरत्र क्षिपेत् पूर्वादितो यथा || ४५५ || तथा सोमांशतैवात्र जडतालो(रो)हलक्षणा | शून्यादितैव तत्रापि त्यक्तपारोक्ष्यमीलना || ४५६ || भासते चिन्मयत्वेन प्रत्यक्षत्वेन वाङ्मनः | (प्. ४०) बिलमुक्तं भवेद्रूपं विसर्गाणां चतुर्विधम् || ४५७ || तत्र सोममयं पूर्णमुदयव्ययवर्जितम् | सकृद्विभातं विश्वस्य बीजं तद्भावतः सदा || ४५८ || पीतः स विश्वभावेन विश्वस्थितिविधायिनाम् | तत्संकलनरूपत्वस्वभावात्कालताजुषाम् || ४५९ || शब्दराशिमयस्वात्मलहरीस्पन्दनात्मनाम् | संविन्मरीचिचक्राणा चक्रवर्तित्वमास्थितम् || ४६० || समस्तज्ञेयशून्यत्वमयस्वप्रथनात्मनि | जानाति सातु तन्मात्रे प्रकाशे प्रत्यगात्मनि || ४६१ || क्षिपेदभेदतो येन सोमस्यात्मतयोदयात् | अमित्यपास्तपारोक्ष्यं साक्षित्वं सततं भवेत् || ४६२ || सोमे तत्रात्मनः क्षेपात् प्रतीचस्तत्तयोदयात् | त्यक्तसंकोचमालिन्यमीलनाविशदात्मनः || ४६३ || अशेषविश्वभरितमचिन्त्यानन्तशक्तिकम् | अखण्डैकरसानन्दस्फुरणात्मकमद्वयम् || ४६४ || आत्मत्वमनिदंत्वेन भवेत् साक्षादनारतम् | सोमस्यैवं विसर्गस्य पूर्णसंवेदनात्मनः || ४६५ || पूर्णभैरवतैवोक्ता सिद्धिरित्युदितं भवेत् | तदंशेषु यदाद्यन्तस्वरव्यञ्जनवर्जितम् || ४६६ || बीजं विसर्गरूपत्वात् स्थितं पूरयतान्निजाम् | शब्दनात्मतया स्वीयस्वविमर्शात्मताजुषाम् || ४६७ || स्वप्रकाशाविनाभूतस्वयंप्रथनलक्षणाम् | चिदादिबिन्दुपर्यन्तसंवेदनमयात्मनाम् || ४६८ || स्वराणां तिथिरूपाणां विकासौन्मुख्यलक्षणम् | (प्. ४१) स्वेशनासंविदन्तःस्थं स्वशक्त्या तुर्यरूपया || ४६९ || आभासितं बहिष्ट्वेन कादिक्षान्ताक्षरात्मकम् | पृथिव्यादिशिवात्मान्तविश्वमात्मतया श्रयत् || ४७० || तद्विद्यायामशुद्धायामपूर्णोऽस्मीति संविदि | अशेषाभेदकलनावागुरासूत्रणात्मनि || ४७१ || सुखी दुःखी विमूढोऽस्मीत्येवंधीवृत्तिलक्ष्मणि | हृदि क्षिप्द्येन सोऽयं विसर्गः पूर्णचिन्मयः || ४७२ || तत्सामान्यतया तत्त्वमाप्त्वा साक्षाद् भवेत्सदा | सा च क्षिप्ता विसर्गेऽस्मिन् तदेकरसतां गता || ४७३ || तत्पूर्णतासमाविष्टा सर्वतत्त्वशरीरिणी | सर्वाक्षरसमाहारसंविद्रूपाहमात्मिका || ४७४ || ज्ञातृताकर्तृतारूपप्रमातृत्वात्मिका भवेत् | विसर्गात्मा विसर्गोऽयं विश्वं वेत्त्यहमित्यतः || ४७५ || वेदको वित्तिभेदैक्यविधातैवं निरूपितः ? | सोमस्य वेदितुस्तस्य या शक्तिर्वाङ्मयी परा || ४७६ || वित्तिर्यया विदन्विश्वं स्मरन्नयमपोहति | स्वान्तःस्थितं तदात्मानं भवन्संविन्मयत्वतः || ४७७ || एतदाद्यन्तभूतैतत्सद्विसर्गद्वयोज्झितः | बीजं त्रिशूलवृत्त्यात्मविश्वस्थितिमयात्मना || ४७८ || स्वरव्यञ्जनरूपाणां कलानां कलनत्वतः | चोदकत्वेन माध्यस्थ्यरूपं तादात्म्यमाश्रयत् || ४७९ || मायामयसुषुप्त्युद्यद्बीजात्माहङ्क्रियात्मनि | कलनात्मतया योगकलातत्त्वस्वरूपिणी || ४८० || समीरात्मतया पञ्चवृत्तिस्पन्दनलक्षणे | (प्. ४२) प्राणे हृद्युक्तिवेद्येन चोदिकेयं तदात्मताम् ? || ४८१ || पूर्णसंफ(क)लनात्मत्वादाप्त्वा साक्षाद्भवेत्सदा | तत्र क्षेपात्तथा प्राणस्तन्मयीभावयोगतः || ४८२ || स्वस्पन्दनमयाशेषस्वरव्यञ्जनवाङ्मयः | सर्वतत्त्वमयत्वेन तन्मयं देहमाविशन् || ४८३ || ज्ञानस्मृतिविकल्पात्मविश्वसंवेदनात्मकम् | वेदितुं करणं मत्वा भवेत् साक्षादनाश्रितः || ४८४ || सोमस्य वेदितुस्तस्य स्वात्मनो वेदनात्मनः | तया करणसंपत्त्या संपादितजगत्स्थितेः || ४८५ || यैषा संबन्धसामान्यद्रव्यदिक्कालरूपिणी | सत्तात्मा कर्तृतारूपा क्रियास्मीत्यनपायिनी || ४८६ || सृष्टिस्वरूपिणी विश्वं षट्त्रिंशत्तत्त्वसन्ततिम् | शरीरयन्ती शब्दाब्धेस्तस्य प्रत्याहृतक्रमा || ४८७ || अहमित्यात्मविश्रान्तिः सा सदोदेति सर्वदा | तत्स्वरेणादिभूतेन विसर्गेणान्तिमेन च || ४८८ || रहितं केवलं बीजं सद्रूपं तत्त्वलक्षणम् | आत्मना लब्धसत्तानां तत्त्वानां वेदनात्मनः || ४८९ || दशायाः शक्तिरूपाया अवरुह्येदमात्मना | संविदा वेदनीयत्वं प्राप्तानां स्थितिमाजुषाम् || ४९० || विश्वस्य कादिक्षान्तात्मस्वरव्यञ्जनतात्मनाम् | माध्यस्थ्यमात्मतारूपं चोदकस्वरतामयम् || ४९१ || आश्रयद्धृदये देहे क्षिपेद्येन तदात्मिका | सैषा क्रिया तत्सद्भावरूपा साक्षाद्भवेत्सदा || ४९२ || तत्र क्षेपेण देहोऽयं तल्लीनत्वेन तन्मयः | (प्. ४३) तद्भूतमुखपाण्यङ्घ्रिमध्यधातुसमीरचित् || ४९३ || अनपोह्यान्यभावेन तस्याहंत्वेन वेद्यताम् | अन्तःकृताखिलार्थेन भवेत् प्राप्तमनारतम् || ४९४ || इत्येवं सोमताभाजामंशानामंशताजुषाम् | सोमस्य च स्वरूपेण शून्यादीनां चतुष्टयम् || ४९५ || स्वीकुर्वन्नात्मना सिद्धरसन्यायेन रूपयन् | विसर्गेण विधायैषां तन्मयत्वे स्ववर्णताम् || ४९६ || अपोह्य पूर्वतद्रूपजाप्यरूपान्यथाकृताम् | पूर्वोक्तेन पथाभ्यस्यन् सोमास्थानन्दलक्षणम् || ४९७ || कालस्य ग्रसनं कुर्वन्मुहूर्त्तादिक्रमात्मनः | यान्यान्कामयते कामांस्तांस्तांच्छिघ्रमवाप्नुयात् || ४९८ || आरभ्य मन्त्रमुद्राणामावेशं प्राणदेहयोः | षट्त्रिंशत्तत्त्वविष्टया च स्वातन्त्र्यावाप्तिसंपदम् || ४९९ || अवधीकृत्य पूर्वोक्ताः सिद्धिः सम्यगवाप्नुयात् | अह्ना प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः || ५०० || यावद्यामचतुष्कात्मदिनं तावदवस्थितिः | यद्याचरति पूर्वोक्तसोमस्वादनलक्षणम् || ५०१ || तदास्य सर्वतोऽव्यक्ते वितते स्वात्मतेजसा | मायासंकोचरूपायां निशायां शमितात्मनि || ५०२ || प्राप्तायामनुपाख्यत्वं स्वात्मचित्प्रसरात्मनि | तुरीयतदतीतात्मदशाद्वितयलक्षणे || ५०३ || प्रवृत्तेऽहनि सार्वज्ञ्यंमसन्दिग्धं प्रवर्तते | एवं मत्रफलावाप्तिरित्येतद्रुद्रयामलम् || ५०४ || एव मन्त्रफलानां यदुक्तसिद्धिद्वयात्मनाम् | (प्. ४४) अनुत्तरादितो बीजादुक्तादेवाप्तिरित्यतः || ५०५ || एतत्तत्प्रथनायोद्यच्छासनं रुद्रयामलम् | सपादकोटिसंख्यातं फलसंपादकं महत् || ५०६ || एतदेव हि बीजात्म तदुक्तं रुद्रयामलम् | शिवशक्त्योस्तयोरत्र नित्यसंघट्टदर्शनम् || ५०७ || अत एवोक्तरूपैद्धृदयाभ्यासशालिनः | संक्षेपतः फलं प्राह शासनं शासितुः पुरा || ५०८ || एतदभ्यस्य तत्सिद्धिः सर्वज्ञत्वमवाप्यते | जिज्ञासितं वा यत्किंचिच्चिकीर्षितमथापि वा || ५०९ || यथा तथैव जानाति करोति तदशेषतः | अयमस्य स्थितैवोक्ता परा भैरवरूपता || ५१० || अभ्यासेन विनापीति पूर्णं श्रीशासनं शिवम् | एव देवेन शासित्रा स्वरूपं यदनुत्तरम् || ५११ || सदा प्रकाशमानं सदपि स्वातन्त्र्यसंपदा | पूर्णया स्वस्य विच्छिद्य धाम्नो याथात्म्यलक्षणात् || ५१२ || तत्तच्छङ्कात्मसंकोचकारि लोकादिरूपिणाम् | तन्त्राणां नैतदेवं स्यात्तत्त्वमेतादृशत्वतः || ५१३ || तत्प्रवृत्तिश्च नषौ सावेवेंत्वादुदितेति च | बहुधा कथनेनैव गोपितात्मात्र शासने || ५१४ || स्वपरामर्शरूपे तद्धृदयत्वेन भासितम् | व्याख्याकृतोऽपि श्रीशास्त्रमनुत्तरमिदं तथा || ५१५ || स्वस्मात्स्थानादपोह्यैव परत्राक्षिप्तसूत्रकम् | तन्त्रात्मना गोपितार्थभाषयाप्याकृताविह || ५१६ || भासितात्मीयहृदयं जातं प्रोक्तमथात्मनि | (प्. ४५) व्याख्यात्रा श्रोतृशिक्षार्थं व्याख्या त्वागमवस्तुनः || ५१७ || अप्रमोषात्मसात्कारविधित्सासिद्धचेतसा | व्याख्यादौ पूर्णरूपाया विश्रान्तेर्लक्षितत्वतः || ५१८ || विश्रान्तीनां तदंशत्वात्तत्संवित्स्थैर्यलक्षणम् | तिसॄणामधुना रूपं वक्ष्यते ते स्वकर्मणः || ५१९ || हे भोक्तृमुदिताविऽऽवाः ? सन्तः साधकपुङ्गवाः | त्यक्त्वान्यकायचिन्तात्मविभ्रमैः श्रूयतामिदम् || ५२० || अनुत्तरस्य सोमस्य सत्तां तत्त्वात्मना तताम् | समस्तसंपत्संपत्तिपरितृप्तिप्रथामयीम् || ५२१ || समाविश्यात्मभावेन तास्ताः स्वाभोगसंपदः | अवाप्नुतास्तसन्देहविपर्यस्ततयोदिताः || ५२२ || एतद्व्याख्याविमर्शात्मविवेकमयचेतसाम् | मा भूद्भ्रमो वः सच्छिष्या ह्यन्यव्याख्याविचारणे || ५२३ || एतदर्थात्मसात्कारमात्र एव ह्यवाप्नुत | स्वीयस्य भैरवत्वस्य चमत्कारमयीः श्रियः || ५२४ || यस्यामनुत्तरानन्दौ पूर्णतोत्कर्षशालिनौ | योगक्षेमात्मतां श्रित्वा श्रूयते संहितोदयौ || ५२५ || शक्तित्रयात्मिका सैषा लोकसृष्ट्यादिकारणा | सतः सोमस्य संवित्तिः संप्रत्ययशरीरिणी || ५२६ || लोक्यसत्कवलीकारे लोकयित्रात्मविश्रमे | अभितो जा...यं दक्षा त्रिशूलत्रयरूपिणीम् || ५२७ || त्रिलोकीं च तदात्मत्वमात्मीयप्रत्याभिज्ञया | स्वीकुर्वाणां चिदाह्लादपूर्णतावेशपुष्कला || ५२८ || अहमित्यात्मसात्काररूपायां कवलीकृतौ | (प्. ४६) वेद्यस्य सत्ता सततं शोभतामस्तविप्लवा || ५२९ || आत्मनापूर्यमाणं सदात्मना संविदोक्तया | क्षिपन्तीमात्मनोऽत्रैव क्रमाक्रमविभागवत् || ५३० || अनुत्तरस्य सोमस्य सुदतां नौमि षोडशीम् | एष स्पन्दनिधानस्य पुरे चित्परिषट्पतेः || ५३१ || तेनैव पश्वकृत्यात्मनाट्याभिनयवेधसा | पुमांसं पुण्यसंपूर्णं कमप्याविशतेच्छया || ५३२ || इदंवादिनतः स्वस्मात् व्याख्याश्रीत्रिशिकात्मनः | शासनस्य स्वकीयस्य स्वालोकादर्शरूपिणः || ५३३ || तथाभिनवगुप्तोक्तविवृतिव्यापृतात्मनः | तात्पर्यैकप्रथात्मत्वात् नाम्ना तात्पर्यदीपिका || ५३४ || सेयं प्रकाशिताशेषत्रिशिकाशासनाशया | सविसासं नभोर्मध्ये सर्वमङ्गलया समम् || ५३५ || सदारब्धं तु जगति त्वटनोद्योगशालिनः | पुरतः शाश्वतीमाप्त्वा स्थितिं देदीप्यते शिवम् || ५३६ || इति श्रीपरात्रीशिकातात्पर्यदीपिका संपूर्णा | इति शिवम् || ########### END OF FILE #######